|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.139. अध्यायः 139
Mahabharata - Udyoga Parva - Chapter Topics
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-139-0x(3796)(36553)
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः।
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ॥ 5-139-1(36554)
तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥ 5-139-2(36555)
भीष्म उवाच। 5-139-3x(3797)
शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् ।
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥ 5-139-3(36556)
द्रोण उवाच। 5-139-4x(3798)
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये।
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे ॥ 5-139-4(36557)
तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् ।
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम् ॥ 5-139-5(36558)
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥ 5-139-6(36559)
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥ 5-139-7(36560)
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥ 5-139-8(36561)
मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये ।
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥ 5-139-9(36562)
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे ॥ 5-139-10(36563)
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि।
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥ 5-139-11(36564)
वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे।
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥ 5-139-12(36565)
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम्।
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति ॥ 5-139-13(36566)
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः ।
तमैलविलमासाद्य धर्मराजो व्यराजत ॥ 5-139-14(36567)
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥ 5-139-15(36568)
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥ 5-139-16(36569)
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥ 5-139-17(36570)
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम् ॥ 5-139-18(36571)
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः।
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम् ॥ 5-139-19(36572)
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः।
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥ 5-139-20(36573)
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता।
सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे ॥ 5-139-21(36574)
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।
मा गमः सतुतामात्यःसमित्रश्च यमक्षयम् ॥ ॥ 5-139-22(36575)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-139-9 एते पाण्डवास्त्वया मिथ्योपचारिता अपि अनु पश्चात्प्रिये वर्तमाना हि प्रसिद्धम् । तव तु दोषाः द्वेषादयः। अहितत्वाय वैरभावाय कल्पन्ते ॥ 5-139-11 उष्णगे उष्णातिगमे वर्षकाले ॥ 5-139-12 वासुदेवो यथा हि त्वां प्रवृण्वानो न मन्यते इति खo डo पाठः। वासमेव यथाहि त्वं इति घoटo पाठः । वासवेय यथा इति कo पाठः ॥ 5-139-14 ऐलविलं कुबेरम्। आसाद्य रणे प्राप्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|